By signing in you confirm you are 18 or older, or have your parent’s or guardian’s consent.

CTET 8 Feb 2026 Paper 1 Sanskrit Language Question Paper with Answer Key

Passage

निम्नलिखितं गद्यांशं पठित्वा नव प्रश्नानां (91 - 99) यथोचितं विकल्पं चित्वा उत्तराणि देयानि।
लौहपुरुषः सरदारवल्लभभाईपटेलः जन्मतः कृषकः आसीत्। अस्य जन्म 1875 तमे ईस्वीये वर्षे अक्तूबरमासस्य एकत्रिंशत् (31) तारिकायां गुर्जरप्रदेशे अभवत्। अस्य पिता 1857 वर्षस्य प्रथमस्वतन्त्रतायुद्धे सहभागी आसीत्। यद्यपि अयं महापुरुषः आङ्लदेशात् विधिपरीक्षायां प्रथमश्रेण्यां प्रथमं स्थानं लब्ध्वा अधिवक्ता जातः, तथापि सः स्वकीयं सम्पूर्णजीवनं भारतस्य स्वतन्त्रता-संग्रामाय अर्पितवान्। अयं बारदोली-कृषकाणाम् आन्दोलनस्य सफलं नेतृत्वम् अकरोत्। तेन कारणेन महात्मना गान्धिना “सरदार” इति उपाधिना सम्मानितः। गुर्जरप्रदेशे जलौघ-पीडितानां भूकम्पपीडितानां च एषः अहर्निशं सेवाम् अकरोत्।
अनेकवारं सः कारागारे पातितः। तस्य वृद्धा माता आङ्लाधिकारिभिः प्रताडिता। 1942 तमे वर्षे “भारतं त्यजत” इति आन्दोलने स अकथयत्-न केवलं भारतं त्यजत अपितु एशियामेव त्यजत इति वक्तव्यम्।
स्वतन्त्रभारतस्य स उपप्रधानमन्त्री अभवत्। भारतं तदा अनेकेषु लघुराज्येषु विभक्तम् आसीत्। एषः स्वनीतिचातुर्येण षट्शतस्वदेशीयराज्यानाम् अखण्डे भारते विलयम् अकरोत्।
लौहपुरुषः श्रीपटेलः अतीव अनुशासनप्रियः आसीत्। तस्य प्रत्येकं शब्दः आदेश इव मन्यते। भारतम् एव तस्य क्षेत्रं, समस्तभारतजनता एव तस्य परिवारः। भारतस्य वर्तमानं स्वरूपं तस्य एव सत्प्रयत्नानां परिणामः। अस्माकं दुर्भाग्यवशात् 1950 तमे वर्षे दिसम्बरमासस्य पञ्चदशतारिकायां अयं लोकमान्यः दिवं गतः। भारतं तस्य उपकारं कदापि न विस्मरिष्यति।

Q91

बारदोली-कृषक-आन्दोलनस्य नेतृत्वं केन कृतम्?

  1. (1) बालगङ्गाधरतिलकेन
  2. (2) सुभाषचन्द्रबोसेन
  3. (3) मदनमोहनमालवीयेन
  4. (4) महात्मागान्धिना
See answer and solution
Q92

‘जलौघ’ शब्दः गद्यांशे कस्मिन्नर्थे प्रयुक्तः?

  1. (1) सरोवरे
  2. (2) नद्याम्
  3. (3) जलसमूहे
  4. (4) समुद्रे
See answer and solution
Q93

पटेलः ‘सरदार’ इति उपाधिना केन सम्मानितः?

  1. (1) मदनमोहनमालवीयेन
  2. (2) के.एम. मुन्शिना
  3. (3) आङ्गलसर्वकारेण
  4. (4) महात्मागान्धिना
See answer and solution
Q94

यः न्यायालये कस्य अपि अन्यस्य स्थाने तर्कं प्रस्तौति स कः कथ्यते?

  1. (1) साक्षी
  2. (2) अधिवक्ता
  3. (3) प्रस्तोता
  4. (4) तार्किकः
See answer and solution
Q95

‘वक्तव्यम्’ पदस्य निर्वचनम् किं भवति?

  1. (1) वक् + व्यम्
  2. (2) वच् + तव्यम्
  3. (3) वद् + तव्ययम्
  4. (4) वक् + तव्यम्
See answer and solution
Q96

‘अहर्निशम्’ पदं निम्नलिखितेषु कस्यां कोट्यां मन्यते?

  1. (1) क्रियाविशेषणम्
  2. (2) कर्मकारकः
  3. (3) अधिकरणम्
  4. (4) विशेषणम्
See answer and solution
Q97

1875 तमे ईस्वीय वर्षे कस्य जन्माभवत्?

  1. (1) सरदारवल्लभभाईपटेलस्य पितुः
  2. (2) बालगंगाधरतिलकस्य
  3. (3) राजाराममोहनरायस्य
  4. (4) सरदारवल्लभभाईपटेलस्य
See answer and solution
Q98

1857 वर्षस्य स्वतन्त्रतायुद्धे कः भागं गृहीतवान्?

  1. (1) सरदारवल्लभभाईपटेलस्य पिता
  2. (2) महात्मागान्धी
  3. (3) पं. जवाहरलाल नेहरू
  4. (4) सरदारवल्लभभाईपटेलः
See answer and solution
Q99

‘उपाधिना’ इत्यस्मिन पदे का विभक्तिः किम् लिङ्गम् च वर्तते?

  1. (1) तृतीया-एकवचनम्, पुल्लिंङ्गे
  2. (2) चतुर्थी-बहुवचनम्, स्त्रीलिङ्गे
  3. (3) षष्ठी-बहुवचनम्, पुल्लिंङ्गे
  4. (4) तृतीया-एकवचनम्, स्त्रीलिङ्गे
See answer and solution

Passage

निम्नलिखितानि पद्यानि पठित्वा षट् प्रश्नानां (100 - 105) उत्तराणि यथोचितान् विकल्पान् चित्वा देयानि।
अभिवादनशीलस्य नित्यं वृद्धोपसेविनः।
चत्वारि तस्य वर्धन्ते आयुर्विद्या यशो बलम्।।1।।

हस्तस्य भूषणं दानं सत्यं कण्ठस्य भूषणम्।
श्रोत्रस्य भूषणं शास्त्रं भूषणैः किं प्रयोजनम्।।2।।

पुस्तकस्था तु या विद्या परहस्तगतं धनम्।
कार्यकाले समुत्पन्ने न सा विद्या न तद्धनम्।।3।।

नमन्ति फलिनो वृक्षाः नमन्ति गुणिनो जनाः।
शुष्कवृक्षाश्च मूर्खाश्च न नमन्ति कदाचन।।4।।

अलसस्य कुतो विद्या अविद्यस्य कुतो धनम्।
अधनस्य कुतो मित्रम् अमित्रस्य कुतः सुखम्।।5।।

Q100

हस्तस्य भूषणम् किम् अस्ति?

  1. (1) स्वर्णम्
  2. (2) रजतम्
  3. (3) दानम्
  4. (4) अलङ्कारः
See answer and solution
Q101

‘फलिनो वृक्षाः’ किं कुर्वन्ति?

  1. (1) प्राणिनः भोजनम् प्रददति
  2. (2) ऊर्ध्वोन्मुखाः वर्धन्ते
  3. (3) नमन्ति
  4. (4) शुष्यन्ति
See answer and solution
Q102

का विद्या कार्यकाले नोपयुज्यते?

  1. (1) देशकालानुसारं न उपयुक्ता
  2. (2) परहस्तगता
  3. (3) पुस्तकस्था
  4. (4) वार्धक्ये गृहीता
See answer and solution
Q103

‘गुणिनः’ पदस्य पद्यस्यप्रयोगानुसारम् किं निर्वचनम्?

  1. (1) गुणिन् + प्रथमा-एकवचनम्
  2. (2) गुणिन् + षष्ठी-एकवचनम्
  3. (3) गुणिन् + पञ्चमी-एकवचनम्
  4. (4) गुणिन् + द्वितीया-बहुवचनम्
See answer and solution
Q104

वृद्धोपसेविनः किम् न वर्धते?

  1. (1) बलम्
  2. (2) धनम्
  3. (3) विद्या
  4. (4) यशः
See answer and solution
Q105

‘उत्पन्न’ इत्यस्य पदस्य निर्वचनम् क्रियताम्-

  1. (1) उद् + पद् + क्त
  2. (2) उत् + पद् + न
  3. (3) उत् + पत् + क्त
  4. (4) उत् + पन् + न
See answer and solution
Q106

कथनम् (अ) : कक्षायां शिक्षण-अनुभवाः छात्राणां जीवनेन प्रसङ्गैश्च गहनतया सम्बन्धिता सन्ति।
कारणम् (आ) : शिक्षण-अनुभवाः छात्राणां पूर्व-अवबोधे आश्रिताः सन्ति।
निम्नलिखितविकल्पेभ्यः समीचीनम् उत्तरं दीयताम्।

  1. (1) उभे (अ) तथा (आ) सत्ये स्तः, परं (आ), (अ) इत्यस्य समीचीना व्याख्या नास्ति।
  2. (2) (अ) सत्यम् अस्ति, परं (आ) असत्यम् अस्ति।
  3. (3) (अ) असत्यम् अस्ति, परं (आ) सत्यम् अस्ति।
  4. (4) उभे (अ), (आ) च सत्ये स्तः तथा (आ), (अ) इत्यस्य समीचीना व्याख्या अस्ति।
See answer and solution
Q107

भाषाशिक्षणस्य विषये किं कथनं निम्नलिखितेषु सत्यं नास्ति?

  1. (1) भाषाशिक्षणाय समयस्य अपेक्षा वर्तते।
  2. (2) भाषाशिक्षणम् अर्थबोधोऽस्ति।
  3. (3) भाषां शिक्षितुं व्याकरणशिक्षणम् आवश्यकं वर्तते।
  4. (4) सर्वे छात्राः सुगमतया भाषां शिक्षितुं समर्थाः यदि भाषायै पर्याप्तं समयः दीयते।
See answer and solution
Q108

एतद् ज्ञातुं यत् छात्राः कस्मिञ्चिद् आपणे किमपि क्रेतुं कार्ययोग्यसाधनस्य प्रयोगं कर्तुं समर्थाः सन्ति, छात्राणां कृते एतत् समीचीनम् अस्ति?

  1. (1) आत्मनः भोजनवरीयताविषये लिखन्तु
  2. (2) आपणस्वामिनः ग्राहकाणां मध्ये वार्तालापम् आधृत्य एकाम् लघुकथां लिखन्तु
  3. (3) आपणस्वामिनः ग्राहकाणां च मध्ये दृश्याङ्कनम् कुर्युः
  4. (4) आपणस्वामिनः ग्राहकाणां च मध्ये लघु वार्तालापं लिखन्तु।
See answer and solution
Q109

कश्चिद् अध्यापकः भाषाशिक्षणस्य काञ्चित् पक्षान् प्राप्तवान् यथा ‘वैज्ञानिकविचारे अवबोधेन सह पठनम्’। सः काञ्चित् छात्रान् अचिनोत् ये विशेषपक्षेषु काठिन्यम् अनुभवन्ति। स तेषां पाठस्य पठने अर्थावबोधने च सहायतां कर्तुम् पृथक् कक्षाः गृहीतवान्। अयं प्रविधिः किं ज्ञायते?

  1. (1) उच्चतरकौशलम् (Higher Order Skills)
  2. (2) चिन्तनकौशलम् (Thinking Skills)
  3. (3) प्रतिपूर्तिशिक्षणम् (Feedback Teaching)
  4. (4) संशोधनात्मकशिक्षणम् (Remedial Teaching)
See answer and solution
Q110

निम्नलिखितेषु किं पठनस्य उपकौशलं नास्ति?

  1. (1) अर्थनिष्कर्षणम् तथा अपरिचितशब्दकोषीयशब्दानां प्रयोगः
  2. (2) विशेषसूचनां प्राप्तुं क्रमवीक्षणम् (Scanning)
  3. (3) प्रत्येकशब्दस्य वर्तनीज्ञानम्
  4. (4) शब्दावल्याः अभिज्ञानं मुख्यशब्दानां च ग्रहणम्
See answer and solution
Q111

कथनम् (अ) : छात्रस्य पत्राधानम् (Portfolio) छात्रस्य कार्यस्य अंशानाम् उद्देश्यपूर्णं संचयनम् अस्ति।
कारणम् (आ) : पत्राधानं छात्रान् स्वशक्तेः दुर्बलतायाः च मूल्यांकनं कर्तुं प्रोत्साहयति।
निम्नलिखितविकल्पेषु समुचितं उत्तरं दीयताम्।

  1. (1) (अ) तथा (आ) उभे सत्ये स्तः, परं (आ), (अ) इत्यस्य समीचीना व्याख्या नास्ति।
  2. (2) (अ) सत्यम् अस्ति, परं (आ) असत्यम् अस्ति।
  3. (3) (अ) असत्यम् अस्ति, परं (आ) सत्यम् अस्ति।
  4. (4) (अ) तथा (आ) उभे सत्ये स्तः तथा (आ), (अ) इत्यस्य समीचीना व्याख्या अस्ति।
See answer and solution
Q112

छात्राणां शब्दावलीं वर्धयितुं, कश्चिद् अध्यापकः तां सामग्रीं प्रयुनक्ति यस्यां सा भाषा वर्तते या छात्राणां कृते सरलीकृता, तथा च प्रामाणिक-सामग्र्याम् आधारिता अस्ति। सामग्री अस्ति –

  1. (1) अभिनयपत्राणि (Role Cards)
  2. (2) द्विभाषीयाः शब्दकोशाः
  3. (3) श्रेण्याः पाठकाः (Graded Readers)
  4. (4) समाचारपत्रम्
See answer and solution
Q113

कश्चिद् भाषा-अध्यापकः छात्रान् एकां प्रश्नावलीं ददाति यथा स तेषां शिक्षणपद्धतिं वरीयतां च भूयस्तरं ज्ञातुं शक्नुयात्। अत्र अध्यापकः निम्नलिखितरूपेण कार्यं करोति –

  1. (1) योजनानिर्मातृरूपेण
  2. (2) विशेषज्ञसूचनां प्रदातृरूपेण
  3. (3) निदानकर्तृरूपेण
  4. (4) प्रबन्धकरूपेण
See answer and solution
Q114

प्रथमकक्षायाः अध्यापकः छात्रान् भित्तौ आरेखितुं, चित्रितुं तथा यथेष्टं लेखितुं कथयति। स अत्र किं प्रोत्साहयति?

  1. (1) आमोद – प्रमोदम्
  2. (2) लेखनकौशलविकासम्
  3. (3) वर्णमालायाः अक्षराणां लेखनस्य प्रारम्भम्
  4. (4) नवोदितसाक्षरताविकासम्
See answer and solution
Q115

चित्राणां विषये किं कथनम् असत्यम् अस्ति?

  1. (1) छात्राणां रुचिं धारयन्ति
  2. (2) एतादृशानि चित्राणि निर्मातुम् अवसरं प्रददति
  3. (3) अपरिचितेषु स्मरणीयेषु च प्रसङ्गेषु भाषां प्रस्तौतुं सहायतां कुर्वन्ति
  4. (4) पुस्तकेषु चित्राणि उदाहरणानि च विषय-वस्तु समर्थयन्ति
See answer and solution
Q116

बालछात्रस्य सन्दर्भे किं कथनम् सत्यम् अस्ति?

  1. (1) अतिलघुवयस्काः छात्राः अमूर्तविचारान् अवबोधयितुं कठिनं मन्यन्ते।
  2. (2) अतिलघुवयस्काः छात्राः आंशिकरूपेण अमूर्तविचारान् अवबोधयन्ति।
  3. (3) अतिलघुवयस्काः छात्राः अमूर्तविचारैः प्रेर्यन्ते।
  4. (4) अतिलघुवयस्काः छात्राः अमूर्तविचारान् अवबोधयन्ति।
See answer and solution
Q117

अध्यापकरूपेण भवान् स्वकक्षायां छात्राणाम् अन्तःसम्पर्कं वर्धिष्यते?
(a) छात्रान् भूयसः प्रश्नान् पृष्ट्वा।
(b) सहयोगिकार्यं, समूहकार्यं च आयोज्य तथा छात्राणां विचारान् आमन्त्र्य।
(c) तैः उच्चैः पाठनं कारयित्वा तथा व्यक्तिशः प्रतिक्रियां ज्ञात्वा येन व्यक्तिशः शिक्षाग्रहणं भवेत्।
(d) अन्तःसम्पर्काय प्रश्नान् प्रष्टुं संवादान् पठित्वा।

  1. (1) (b), (c), (d) स्यानि सन्ति
  2. (2) (a), (b), (d) स्यानि सन्ति
  3. (3) (a), (c), (d) स्यानि सन्ति
  4. (4) (a), (b), (c) स्यानि सन्ति
See answer and solution
Q118

भाषाविकासस्य संज्ञानात्मकसिद्धांतः एतत् समर्थयति यत् –

  1. (1) भाषा पुरस्कारदण्डयोः माध्यमेन शिक्ष्यते।
  2. (2) समाजे अन्तःसम्पर्कमाध्यमेन शिक्ष्यते।
  3. (3) भाषा बालकस्य भाषणात् पूर्वं तस्य विचारावबोधने अवलम्बिताऽस्ति।
  4. (4) भाषा व्यक्तेः सहजातयोग्यता अस्ति।
See answer and solution
Q119

कथनम् (अ) : भाषा तर्कपूर्ण सांस्कृतिक-अवबोधं अभिव्यक्तिं च प्रददाति या बालकेषु वर्धिष्यमाणासु योग्यतासु मुख्या क्षमता मन्यते।
कारणम् (आ) : सांस्कृतिक-अवबोधस्य अभिव्यक्तेश्च क्षमताः बालकेषु अभिज्ञानस्य योग्यतां वर्धन्ते तथा अपर संस्कृतीः अभिज्ञानश्च जानन्ति।
निम्नलिखितेभ्यः विकल्पेभ्यः यथोचितानि उत्तराणि दीयन्ताम्।

  1. (1) (अ) तथा (आ) सत्ये स्तः परं (आ), (अ) इत्यस्य समीचीना व्याख्या नास्ति।
  2. (2) (अ) सत्यमस्ति, परं (आ) असत्यम् अस्ति।
  3. (3) (अ) असत्यम् अस्ति, परं (आ) सत्यम् अस्ति।
  4. (4) (अ) तथा (आ) सत्ये स्तः तथा (आ), (अ) इत्यस्य समीचीना व्याख्या अस्ति।
See answer and solution
Q120

पाठ्यपुस्तकेषु कथाः, कविताः, नाटकानि, लेखकानां अन्यप्रकारस्य लेखाः भवन्ति। अस्माभिः एतादृश्यः सामग्र्यः चेतव्याः यतः
__________.

  1. (1) पाठ्यपुस्तकेषु प्रयोगस्य उद्देश्येन लिखिताः सन्ति।
  2. (2) सुप्रसिद्धलेखकैः लिखिताः सन्ति।
  3. (3) ताः सरलभाषायां सन्ति।
  4. (4) ताः प्रामाणिकाः सन्ति तथा प्राकृतिकभाषायां सन्ति।
See answer and solution

Passage

निम्नलिखितं गद्यांशं पठित्वा अष्ट प्रश्नानाम् (121 - 128) यथोचितं विकल्पं चित्वा उत्तराणि देयानि।
कस्मिंश्चिद् देशे कश्चिद् भूपतिः आसीत्। तस्य नाम मायादासः। अतिलुब्धः सः दरिद्रः इव जीवितं नयति स्म।
एकदा कोऽपि मुनिः मायादासस्य प्रासादम् आगच्छत्। नृपतिः तं मुनिं सत्कारेणातोषयत्। नृपतिना सत्कृतः सन्तुष्टः मुनिः अवदत्–‘नृपते! स्वस्त्यस्तु ते। अभीष्टं वरं वरय’ इति। मुनिनैवम् उक्तः स लोभेन प्रेरितः अवदत् – ‘मया स्पृश्यमानाः पदार्थाः सौवर्णाः भवन्तु’ इति। ‘तथास्तु’ इत्युक्त्वा मुनिः अन्तर्हितः अभवत्।
मुनेः वरं लब्ध्वा गृहं प्रविष्टः मायादासः तत्र स्थितानि वस्तूनि अस्पृशत्। तेन स्पृष्टानि वस्तूनि सद्य एव सौवर्णानि जातानि। तद्दृष्ट्वा सः नितरामतुष्यत्। ततः तस्य महती पिपासा जाता। सः जलं पातुम् उद्यतः अभवत्। तेन स्पृष्टं जलमपि सुवर्णपिण्डमभवत्। साधूक्तं न मृषा भवति।
तस्मिन् अवसरे तस्य पुत्री कुसुममञ्जरीमादाय तत्रागता। ‘पितः अतीव सुन्दराणीमानि कुसुमानि’ इति चावदत् नृपतिः तां मञ्जरीं करेणास्पृशत्। तेन स्पृष्टा मञ्जरी सुवर्णमयी जाता। तद् दृष्ट्वा कुमारी दुःखिता अभवत्। सुतां समाश्वासयितुं प्रवृत्तः सः मायादासः ताम् अङ्के उपवेशयति स्म। हन्त, कुमारी सुवर्णमयी सञ्जाता। मायादासः शोकेनोच्चैः व्यलपत्। ‘महर्षे कृपया दत्तं वरं निवर्तयतु। इयं कुमारी मम जीवितम्’ इति न्यवेदयत्।
महर्षिः अवदत् – ‘मायादास, त्वया सुवर्णं महत्तमं गणितम्। वस्तुतः तत् तुच्छम्। उद्यानात् जलमानय। तेन जलेन सिक्तानि वस्तूनि पूर्वामवस्थां प्राप्स्यन्ति।’ इत्युक्त्वा मुनिः तत्रैवान्तर्हितः।
मायादासः उद्यानात् जलमानयत्। सौवर्णानि वस्तूनि तेन जलेन सिक्तानि स्वां स्वां प्रकृतिं प्राप्तानि। तस्य सुता मन्दं हसन्ती पितुः मानसमतोषयत्।
अतिलोभो न कर्त्तव्यः, स तु दुःखस्य कारणम्।

Q121

राज्ञः पुत्री केन कारणेन दुःखिता अभवत्?

  1. (1) कुसुमानि सुगन्धितानि नासन्
  2. (2) राज्ञः स्पर्शेन कुसुमानि अदृष्टानि अभवन्
  3. (3) कुसुमानि सुन्दराणि नासन्
  4. (4) कुसुममञ्जरी स्वर्णमयी जाता
See answer and solution
Q122

मायादासः किमर्थं पिपासां शामयितुं समर्थः नासीत्?

  1. (1) तेन स्पृष्टं जलम् सुवर्णपिण्डम् अभवत्
  2. (2) नगरे जलस्य अभावः आसीत्
  3. (3) कूपे जलम् अशुष्यत्
  4. (4) तडागस्य जलं दूषितम् आसीत्
See answer and solution
Q123

निम्नलिखितेषु ‘लुब्ध’ शब्दस्य कः पर्यायवाची?

  1. (1) मितव्ययी
  2. (2) लोलुपः
  3. (3) कृपणः
  4. (4) निर्धनः
See answer and solution
Q124

‘मुनिनैवम्’ अत्र कः सन्धिः वर्तते?

  1. (1) वृद्धिः सन्धिः
  2. (2) यण् सन्धिः
  3. (3) दीर्घसन्धिः
  4. (4) गुणसन्धिः
See answer and solution
Q125

‘सन्तुष्टः अभवत्’ इत्यस्मिन् अर्थे गद्यांशे कः शब्दः प्रयुक्तः?

  1. (1) अतुष्यत्
  2. (2) व्यलपत्
  3. (3) न्यवेदयत्
  4. (4) अस्पृशत्
See answer and solution
Q126

मायादासः कीदृशः भूपतिः आसीत्?

  1. (1) बलिष्ठः
  2. (2) वीरः
  3. (3) अतिलुब्धः
  4. (4) उदारः
See answer and solution
Q127

मायादासेन स्पृश्यमानाः पदार्थाः मुनिवरेण कीदृशाः अभवन्?

  1. (1) सौवर्णाः
  2. (2) मृन्मयाः
  3. (3) लौहमयाः
  4. (4) राजताः
See answer and solution
Q128

निम्नलिखितेषु कः शब्दः क्त-प्रत्ययान्तः नास्ति?

  1. (1) स्पृष्टानि
  2. (2) सुन्दराणि
  3. (3) जातानि
  4. (4) स्थितानि
See answer and solution

Passage

निम्नलिखितं गद्यांशं पठित्वा सप्तप्रश्नानाम् (129 - 135) उत्तराणि यथोचितं विकल्पं चित्वा देयानि।
एकदा मोहनदासः मित्रैः सह एकं नाटकं द्रष्टुमगच्छत्। तस्मिन् राज्ञः हरिश्चन्द्रस्य कर्मनिष्ठा गहनतमा सत्यभक्तिश्च प्रदर्शिते आस्ताम्। असौ निजपत्न्याः अपि श्मशानकरं गृहीत्वा सत्यमपालयत्। नाटकं दृष्ट्वा मोहनदासस्य चेतसि महत् परिवर्तनं सञ्जातम्। असौ चिरम् अरोदीत, मनसि सङ्कल्पञ्च अकरोत् यत् सत्यरक्षायां स हरिश्चन्द्र इव आचरिष्यति।
एकदा गाइल्सनामा विद्यालयनिरीक्षकः विद्यालयमागतः। तत्र एकस्यां कक्षायां बालानां वर्णविन्याससज्ञानं परीक्षितुमारभत। मोहनदासं विहाय सर्वे बालाः शुद्धं वर्णविन्यासम् अकुर्वन्। सः केट्ल (Kettle) इत्यस्य शब्दस्य वर्णविन्यासं कर्तुं नाशक्नोत्।
आत्मनः संदिग्धां प्रतिष्ठां चिन्त्यमानः तस्य शिक्षकः आतङ्कितः अभवत्। सः शिक्षकः निकटस्थश्यामपट्टतः शुद्धां वर्तनीम् अनुकर्तुं सङ्केतेन मोहनदासं प्रैरयत्।
यद्यपि निरीक्षकस्य ध्यानम् अन्यत्र आसीत् तथापि मोहनः सम्मुखमवलोकयन् अपि शिक्षकस्य अनुकरणं नाकरोत्। सहपाठिनाम् उपहासभूमिः भविष्यामि, शिक्षकस्य कोपभाजनताञ्च गमिष्यामि इत्यपि सः नाचिन्तयत्। सः जानाति स्म यद् वञ्चनातः सत्यस्य गोपनं कदापि भवितुं नार्हति।
कक्षाया अनन्तरं मोहनस्य शिक्षकः तस्मै अकुप्यत्, सहपाठिनश्च तस्योपहासम् अकुर्वन्। यदायं गृहं परावर्तत तदात्मानं क्षतम् अवसन्नञ्च अन्वभवत्। परं गभीरे अन्तरात्मनि स्वसङ्कल्पं स्मारं स्मारं नवां द्युतिं नवं सामर्थ्यञ्च अधिगतवान्।
अत एवोक्तम् –
सत्यान्नास्ति परं तपः ।।

Q129

‘अकरोत्’ पदम् कस्य लकारस्य विद्यते?

  1. (1) लट्लकारस्य
  2. (2) लोट्लकारस्य
  3. (3) लुङ्लकारस्य
  4. (4) लङ्लकारस्य
See answer and solution
Q130

विद्यालयनिरीक्षकः बालानां किम् ज्ञानं परीक्षितुम् आरभत्?

  1. (1) वर्णविन्यासज्ञानं परीक्षितुम्
  2. (2) बालानां चरित्रस्य शुद्धताम् परीक्षितुम्
  3. (3) बालानां सत्यनिष्ठां परीक्षितुम्
  4. (4) बालानां पठनस्य योग्यताम्
See answer and solution
Q131

शिक्षकः किमर्थं आतङ्कितः अभवत्?

  1. (1) मोहनदासस्य प्रतिष्ठा धूमिला भविष्यति इति विचारार्थम्
  2. (2) निरीक्षकमहोदयः क्रुद्धो भविष्यति
  3. (3) मोहनदासः व्यावहारिकः नासीत्
  4. (4) मोहनदासं विहाय सर्वे बालाः शुद्धं वर्णविन्यासम् अकुर्वन्
See answer and solution
Q132

गद्यांशे प्रयुक्तस्य ‘वञ्चनातः’ इत्यस्य शब्दस्य अर्थे किम् शब्दः प्रयोक्तुं शक्यते?

  1. (1) दूषितव्यवहारात्
  2. (2) व्यवहारकौशलात्
  3. (3) हरिश्चन्द्रस्य मिथ्यादूषणात्
  4. (4) छलात्
See answer and solution
Q133

नाटके किं प्रदर्शितम् आसीत्?

  1. (1) हरिश्चन्द्रस्य क्रूरता
  2. (2) हरिश्चन्द्रस्य सत्यभक्तिः
  3. (3) हरिश्चन्द्रस्य निर्दयता
  4. (4) छलप्रपञ्चः
See answer and solution
Q134

मोहनदासः किं सङ्कल्पम् अकरोत्?

  1. (1) सः सत्यरक्षायाम् हरिश्चन्द्र इव क्रूरो न भविष्यति
  2. (2) सः यथावसरं सत्यस्य पालनं करिष्यति
  3. (3) सः दुःखितां महिलां जानन् अपि निष्करुणो न भविष्यति
  4. (4) सः हरिश्चन्द्र इव आचरिष्यति
See answer and solution
Q135

‘चिन्त्यमानः’ इत्यस्मिन् पदे कः प्रत्ययः?

  1. (1) शानच्
  2. (2) मानच्
  3. (3) शतृ
  4. (4) मतुप्
See answer and solution
Q136

कश्चिद् अध्यापकः एकं दृश्य-श्रव्य लघुचित्रं (Video) प्राप्नोति यत् एककस्य शीर्षकस्य अनुकूलं वर्तते। स लघुचित्रम् अधिकृत्य युगलकार्यं प्रायोजयति। अस्य युगलकार्यस्य उद्देश्यं छात्रान् प्रोत्साहयितुं अस्ति –

  1. (1) तीव्रगत्या मिलित्वा कार्यं कारयितुम्
  2. (2) अध्यापकात् स्वतन्त्रा भूत्वा कार्यं कर्तुम्
  3. (3) भाषा-बोधं विकासयितुम्
  4. (4) आत्मनः कार्यस्य मूल्याङ्कनं कर्तुम्
See answer and solution
Q137

भाषाशिक्षणाय लघुकथानां संकलनं, अपरे च पाठ्याः पूरकपठनसामग्रीरूपे निर्धारिताः सन्ति। पूरकपठनसामग्र्याः मुख्यप्रयोजनम् किम् अस्ति?

  1. (1) गहनपठनं प्रोत्साहयितुम्
  2. (2) नैतिकशिक्षणं प्रोत्साहयितुम्
  3. (3) विस्तृत (Extensive) पठनं प्रोत्साहयितुम्
  4. (4) बहुभाषीयतां प्रोत्साहयितुम्
See answer and solution
Q138

कथनम् (अ) : संशोधनात्मकम् अध्यापनं अध्ययन-अध्यापनप्रक्रियायाः अविभाज्यम् अङ्गम् अस्ति।
कारणम् (आ) : संशोधनात्मकम् अध्यापनम् पुनः अध्यापनार्थम् अस्ति। इदम् आवश्यकं नास्ति यत् सः एव विधिः नियोजयितव्यः यस्मिन् भाषायाः अङ्गानि समुपयुक्तविधिना न शिक्षितानि।
निम्नलिखितविकल्पेभ्यः समुचितं उत्तरं दीयताम्।

  1. (1) (अ) तथा (आ) उभे सत्ये स्तः, परं (आ), (अ) इत्यस्य समीचीना व्याख्या नास्ति।
  2. (2) (अ) सत्यम् अस्ति, परं (आ) असत्यम् अस्ति।
  3. (3) (अ) असत्यम् अस्ति, परं (आ) सत्यम् अस्ति।
  4. (4) (अ) तथा (आ) उभे सत्ये स्तः, तथा (आ), (अ) इत्यस्य समीचीना व्याख्या अस्ति।
See answer and solution
Q139

छात्रेण स्वकक्षायां पठितां कथां पुनः स्वशब्देषु श्रावणम् निम्नलिखितस्य मूल्याङ्कने सहायतां करोति –

  1. (1) प्रवाहस्य
  2. (2) अर्थावबोधस्य
  3. (3) स्मृतेः
  4. (4) शुद्धतायाः
See answer and solution
Q140

भाषाअध्यापने निम्नलिखितेषु का अवधारणा असत्यम् अस्ति?

  1. (1) छात्राणां प्रथमा भाषा भाषाशिक्षणे महत्त्वपूर्णं योगदानं ददाति
  2. (2) भाषाशिक्षणम् सम्प्रेषणात्मकक्रियासु केन्द्रितम् भवितव्यम्
  3. (3) भाषाशिक्षणे भाषणापेक्षया लेखने महत्त्वं दातव्यम्
  4. (4) छात्राः भाषां वास्तविकपरिस्थितिषु प्रयोगस्य प्रयासेन भाषाया अधिग्रहणं कुर्वन्ति।
See answer and solution
Q141

निम्नलिखितेषु किं भाषाशिक्षकस्य प्रमुखं दायित्वम् अस्ति?

  1. (1) पाठनाय विषय-वस्तोः चयनम्
  2. (2) छात्राणां विभिन्नकक्षासु समूहीकरणम्
  3. (3) छात्राणां निर्देशनम्
  4. (4) छात्रस्य सम्प्रेषणात्मकआवश्यकतानाम् अभिज्ञानम्
See answer and solution
Q142

आधारभूत-अवस्थायां छात्राः सर्वाधिकाः सहजाः भवन्ति तथा सर्वोत्कृष्टरूपेण शिक्षन्ति –

  1. (1) राज्यभाषायाम्
  2. (2) गृहभाषायाम्
  3. (3) आंग्लभाषामाध्यमे
  4. (4) शिक्षणमाध्यमे
See answer and solution
Q143

बालकान् कथाश्रावणस्य विषये निम्नलिखितेषु किम् असत्यम् अस्ति?
कथाश्रवणं छात्रान् एवं सहायतां कुर्वन्ति –

  1. (1) वाक्यसंरचनां शिक्षन्ति।
  2. (2) समस्यासमाधानकौशलम् विकासयन्ति।
  3. (3) जीवने आचरणीयानि नवीननैतिकमूल्यानि शिक्षन्ति।
  4. (4) ते नवीनान् शब्दान् शिक्षन्ति तथा आत्मनः शब्दराशिं विस्तारयन्ति।
See answer and solution
Q144

कश्चिद् अध्यापकः भाषाकार्ये छात्राणां मिश्रितयोग्यतासमूहं निर्माति। मिश्रितयोग्यतासमूहः निर्मीयते –

  1. (1) छात्रान् प्रभावयितुं स्वविचारान् स्वच्छन्दतया कथयितुं अवसरं लब्धुम्
  2. (2) छात्रान् परस्परं सहायतां कर्तुं प्रोत्साहयितुम्
  3. (3) अध्यापकस्य कार्यभारं आंशिकरूपेण ग्रहीतुं यतः अध्यापकः सर्वेषु ध्यानं दातुं न शक्नोति
  4. (4) दुर्बलतरान् छात्रान् ज्ञातुम्
See answer and solution
Q145

छात्राः प्रत्यक्षीकुर्वन्तु तथा गहनतया निमज्जन्तु

  1. (1) प्रारम्भिक-अवस्थायाः एव द्वयोः लिखितभाषयोः
  2. (2) प्रारम्भिक-अवस्थायाः एव बहुमौखिकभाषासु
  3. (3) प्रारम्भिक-अवस्थायाः एव बहुलिखितभाषासु
  4. (4) प्रारम्भिक-अवस्थायाः एव द्वयोः मौखिकभाषयोः
See answer and solution
Q146

कथनम् (अ) : प्रारम्भिकसाक्षरतायां चित्राङ्कनम् लेखनस्य प्रारम्भः मन्यते।
कारणम् (आ) : चित्राणि प्रतीकानि सन्ति तथा अर्थं कथयन्ति।
निम्नलिखितेभ्यः विकल्पेभ्यः समुचितानि उत्तराणि देयानि।

  1. (1) (अ) तथा (आ) उभे सत्ये स्तः, परं (अ), (आ) इत्यस्य समीचीना व्याख्या नास्ति।
  2. (2) (अ) सत्यम् अस्ति, परं (आ) असत्यम् अस्ति।
  3. (3) (अ) असत्यम् अस्ति, परं (आ) सत्यम् अस्ति।
  4. (4) (अ) तथा (आ) उभे सत्ये स्तः, तथा (आ), (अ) इत्यस्य समीचीना व्याख्या अस्ति।
See answer and solution
Q147

न्यूनातिन्यून-युगल-अभ्यासः निम्नलिखितं वर्धयितुं प्रभावि-पद्धतिः भवितुं शक्यते।

  1. (1) शब्दावलीम्
  2. (2) उच्चारणम्
  3. (3) पठनावबोधम्
  4. (4) व्याकरणम्
See answer and solution
Q148

निम्नलिखितेषु किं भाषाअधिग्रहणस्य व्यवहारवादि-सिद्धान्तेन सम्बन्धितम् नास्ति।

  1. (1) रिक्तपात्रम्
  2. (2) प्रयासः त्रुटयश्च
  3. (3) सामाजिक-अन्तःसम्पर्कः
  4. (4) कार्यानुकूलनम् (Operant Conditioning)
See answer and solution
Q149

पञ्चमीकक्षायां कश्चिद् अध्यापकः छात्रान् कथां लेखितुं कार्यं दत्तवान् यावत् छात्राः कथां लिखन्ति, अध्यापकः तान् छात्रान् सहायतां दातुं कक्षायाः परितः भ्रमति ये अशुद्धीः कुर्वन्ति अथवा नवीनशब्दान् पृच्छन्ति। अत्र अध्यापकः कस्य दायित्वे वर्तते।

  1. (1) योजनानिर्मातुः
  2. (2) सहायकस्य
  3. (3) निदानकर्तुः (Diagnostician)
  4. (4) प्रबन्धकस्य
See answer and solution
Q150

कथनम् (अ) : भाषा केवलं शब्दस्य शुद्धोच्चारणाद् अधिका अस्ति।
कारणम् (आ) : पठनम् निष्कूटीकरणम् अस्ति।
निम्नविकल्पेभ्यः उचितं विकल्पं चित्वा प्रश्नानाम् उत्तराणि देयानि –

  1. (1) (अ) तथा (आ) उभे सत्ये स्तः, परं (आ), (अ) इत्यस्य समीचीना व्याख्या नास्ति।
  2. (2) (अ) सत्यम् अस्ति, परं (आ) असत्यम् अस्ति।
  3. (3) (अ) असत्यम् अस्ति, परं (आ) सत्यम् अस्ति।
  4. (4) (अ) तथा (आ) उभे सत्ये स्तः, तथा (आ), (अ) इत्यस्य समीचीना व्याख्या अस्ति।
See answer and solution