By signing in you confirm you are 18 or older, or have your parent’s or guardian’s consent.

CTET 8 Feb 2026 Paper 1 Sanskrit, Question 125

Topic: Vocabulary

Passage

निम्नलिखितं गद्यांशं पठित्वा अष्ट प्रश्नानाम् (121 - 128) यथोचितं विकल्पं चित्वा उत्तराणि देयानि।
कस्मिंश्चिद् देशे कश्चिद् भूपतिः आसीत्। तस्य नाम मायादासः। अतिलुब्धः सः दरिद्रः इव जीवितं नयति स्म।
एकदा कोऽपि मुनिः मायादासस्य प्रासादम् आगच्छत्। नृपतिः तं मुनिं सत्कारेणातोषयत्। नृपतिना सत्कृतः सन्तुष्टः मुनिः अवदत्–‘नृपते! स्वस्त्यस्तु ते। अभीष्टं वरं वरय’ इति। मुनिनैवम् उक्तः स लोभेन प्रेरितः अवदत् – ‘मया स्पृश्यमानाः पदार्थाः सौवर्णाः भवन्तु’ इति। ‘तथास्तु’ इत्युक्त्वा मुनिः अन्तर्हितः अभवत्।
मुनेः वरं लब्ध्वा गृहं प्रविष्टः मायादासः तत्र स्थितानि वस्तूनि अस्पृशत्। तेन स्पृष्टानि वस्तूनि सद्य एव सौवर्णानि जातानि। तद्दृष्ट्वा सः नितरामतुष्यत्। ततः तस्य महती पिपासा जाता। सः जलं पातुम् उद्यतः अभवत्। तेन स्पृष्टं जलमपि सुवर्णपिण्डमभवत्। साधूक्तं न मृषा भवति।
तस्मिन् अवसरे तस्य पुत्री कुसुममञ्जरीमादाय तत्रागता। ‘पितः अतीव सुन्दराणीमानि कुसुमानि’ इति चावदत् नृपतिः तां मञ्जरीं करेणास्पृशत्। तेन स्पृष्टा मञ्जरी सुवर्णमयी जाता। तद् दृष्ट्वा कुमारी दुःखिता अभवत्। सुतां समाश्वासयितुं प्रवृत्तः सः मायादासः ताम् अङ्के उपवेशयति स्म। हन्त, कुमारी सुवर्णमयी सञ्जाता। मायादासः शोकेनोच्चैः व्यलपत्। ‘महर्षे कृपया दत्तं वरं निवर्तयतु। इयं कुमारी मम जीवितम्’ इति न्यवेदयत्।
महर्षिः अवदत् – ‘मायादास, त्वया सुवर्णं महत्तमं गणितम्। वस्तुतः तत् तुच्छम्। उद्यानात् जलमानय। तेन जलेन सिक्तानि वस्तूनि पूर्वामवस्थां प्राप्स्यन्ति।’ इत्युक्त्वा मुनिः तत्रैवान्तर्हितः।
मायादासः उद्यानात् जलमानयत्। सौवर्णानि वस्तूनि तेन जलेन सिक्तानि स्वां स्वां प्रकृतिं प्राप्तानि। तस्य सुता मन्दं हसन्ती पितुः मानसमतोषयत्।
अतिलोभो न कर्त्तव्यः, स तु दुःखस्य कारणम्।

Q125

‘सन्तुष्टः अभवत्’ इत्यस्मिन् अर्थे गद्यांशे कः शब्दः प्रयुक्तः?

  1. (1) अतुष्यत्Correct answer
  2. (2) व्यलपत्
  3. (3) न्यवेदयत्
  4. (4) अस्पृशत्

Solution.

CBSE answer: (1)

उत्तरम्: (1) अतुष्यत्

  1. गद्यांशे ‘सः नितराम् अतुष्यत्’ इति प्रयुक्तम्।
  2. तुष्-धातोः लङ्लकारे ‘अतुष्यत्’ इत्यस्य अर्थः ‘सन्तुष्टः अभवत्’।
  3. ‘व्यलपत्’ = विलापम् अकरोत्, ‘न्यवेदयत्’ = निवेदनम् अकरोत्, ‘अस्पृशत्’ = स्पर्शम् अकरोत्।

सावधानम्: गद्यांशे ‘अतोषयत्’ अपि अस्ति, तस्य अर्थः ‘अन्यं तोषितवान्’; विकल्पेषु तु ‘अतुष्यत्’ एव शुद्धः।