By signing in you confirm you are 18 or older, or have your parent’s or guardian’s consent.

CTET 8 Feb 2026 Paper 1 Sanskrit, Question 96

Topic: Grammar

Passage

निम्नलिखितं गद्यांशं पठित्वा नव प्रश्नानां (91 - 99) यथोचितं विकल्पं चित्वा उत्तराणि देयानि।
लौहपुरुषः सरदारवल्लभभाईपटेलः जन्मतः कृषकः आसीत्। अस्य जन्म 1875 तमे ईस्वीये वर्षे अक्तूबरमासस्य एकत्रिंशत् (31) तारिकायां गुर्जरप्रदेशे अभवत्। अस्य पिता 1857 वर्षस्य प्रथमस्वतन्त्रतायुद्धे सहभागी आसीत्। यद्यपि अयं महापुरुषः आङ्लदेशात् विधिपरीक्षायां प्रथमश्रेण्यां प्रथमं स्थानं लब्ध्वा अधिवक्ता जातः, तथापि सः स्वकीयं सम्पूर्णजीवनं भारतस्य स्वतन्त्रता-संग्रामाय अर्पितवान्। अयं बारदोली-कृषकाणाम् आन्दोलनस्य सफलं नेतृत्वम् अकरोत्। तेन कारणेन महात्मना गान्धिना “सरदार” इति उपाधिना सम्मानितः। गुर्जरप्रदेशे जलौघ-पीडितानां भूकम्पपीडितानां च एषः अहर्निशं सेवाम् अकरोत्।
अनेकवारं सः कारागारे पातितः। तस्य वृद्धा माता आङ्लाधिकारिभिः प्रताडिता। 1942 तमे वर्षे “भारतं त्यजत” इति आन्दोलने स अकथयत्-न केवलं भारतं त्यजत अपितु एशियामेव त्यजत इति वक्तव्यम्।
स्वतन्त्रभारतस्य स उपप्रधानमन्त्री अभवत्। भारतं तदा अनेकेषु लघुराज्येषु विभक्तम् आसीत्। एषः स्वनीतिचातुर्येण षट्शतस्वदेशीयराज्यानाम् अखण्डे भारते विलयम् अकरोत्।
लौहपुरुषः श्रीपटेलः अतीव अनुशासनप्रियः आसीत्। तस्य प्रत्येकं शब्दः आदेश इव मन्यते। भारतम् एव तस्य क्षेत्रं, समस्तभारतजनता एव तस्य परिवारः। भारतस्य वर्तमानं स्वरूपं तस्य एव सत्प्रयत्नानां परिणामः। अस्माकं दुर्भाग्यवशात् 1950 तमे वर्षे दिसम्बरमासस्य पञ्चदशतारिकायां अयं लोकमान्यः दिवं गतः। भारतं तस्य उपकारं कदापि न विस्मरिष्यति।

Q96

‘अहर्निशम्’ पदं निम्नलिखितेषु कस्यां कोट्यां मन्यते?

  1. (1) क्रियाविशेषणम्Correct answer
  2. (2) कर्मकारकः
  3. (3) अधिकरणम्
  4. (4) विशेषणम्

Solution.

CBSE answer: (1)

उत्तरम्: (1) क्रियाविशेषणम्

  1. 'अहर्निशम्' = अहनि च निशायां च, अर्थात् दिवारात्रम्।
  2. वाक्ये "अहर्निशं सेवाम् अकरोत्" इत्यत्र एतत् पदं 'अकरोत्' इति क्रियायाः रीतिं कालं च बोधयति।
  3. यत् पदं क्रियायाः विशेषतां दर्शयति तत् क्रियाविशेषणम्।

सावधानम्: 'अधिकरणम्' इति भ्रमः, परं पदं सप्तमीविभक्तौ नास्ति, अव्ययरूपेण प्रयुक्तम्।