By signing in you confirm you are 18 or older, or have your parent’s or guardian’s consent.

CTET 8 Feb 2026 Paper 1 Sanskrit, Question 100

Topic: Poem comprehension

Passage

निम्नलिखितानि पद्यानि पठित्वा षट् प्रश्नानां (100 - 105) उत्तराणि यथोचितान् विकल्पान् चित्वा देयानि।
अभिवादनशीलस्य नित्यं वृद्धोपसेविनः।
चत्वारि तस्य वर्धन्ते आयुर्विद्या यशो बलम्।।1।।

हस्तस्य भूषणं दानं सत्यं कण्ठस्य भूषणम्।
श्रोत्रस्य भूषणं शास्त्रं भूषणैः किं प्रयोजनम्।।2।।

पुस्तकस्था तु या विद्या परहस्तगतं धनम्।
कार्यकाले समुत्पन्ने न सा विद्या न तद्धनम्।।3।।

नमन्ति फलिनो वृक्षाः नमन्ति गुणिनो जनाः।
शुष्कवृक्षाश्च मूर्खाश्च न नमन्ति कदाचन।।4।।

अलसस्य कुतो विद्या अविद्यस्य कुतो धनम्।
अधनस्य कुतो मित्रम् अमित्रस्य कुतः सुखम्।।5।।

Q100

हस्तस्य भूषणम् किम् अस्ति?

  1. (1) स्वर्णम्
  2. (2) रजतम्
  3. (3) दानम्Correct answer
  4. (4) अलङ्कारः

Solution.

CBSE answer: (3)

उत्तरम्: (3) दानम्

  1. द्वितीये श्लोके उक्तम्: "हस्तस्य भूषणं दानं, सत्यं कण्ठस्य भूषणम्"।
  2. कविः वदति यत् सुवर्णाद्याः अलङ्काराः न, सद्गुणाः एव शरीरस्य भूषणानि।

सावधानम्: स्वर्णं, रजतम्, अलङ्कारः इति सामान्यबुद्ध्या आगच्छन्ति, परं श्लोकः तान् निषेधति: "भूषणैः किं प्रयोजनम्"।