Q102
का विद्या कार्यकाले नोपयुज्यते?
- (1) देशकालानुसारं न उपयुक्ता
- (2) परहस्तगता
- (3) पुस्तकस्था
- (4) वार्धक्ये गृहीता
निम्नलिखितानि पद्यानि पठित्वा षट् प्रश्नानां (100 - 105) उत्तराणि यथोचितान् विकल्पान् चित्वा देयानि।
अभिवादनशीलस्य नित्यं वृद्धोपसेविनः।
चत्वारि तस्य वर्धन्ते आयुर्विद्या यशो बलम्।।1।।
हस्तस्य भूषणं दानं सत्यं कण्ठस्य भूषणम्।
श्रोत्रस्य भूषणं शास्त्रं भूषणैः किं प्रयोजनम्।।2।।
पुस्तकस्था तु या विद्या परहस्तगतं धनम्।
कार्यकाले समुत्पन्ने न सा विद्या न तद्धनम्।।3।।
नमन्ति फलिनो वृक्षाः नमन्ति गुणिनो जनाः।
शुष्कवृक्षाश्च मूर्खाश्च न नमन्ति कदाचन।।4।।
अलसस्य कुतो विद्या अविद्यस्य कुतो धनम्।
अधनस्य कुतो मित्रम् अमित्रस्य कुतः सुखम्।।5।।
का विद्या कार्यकाले नोपयुज्यते?
CBSE answer: (3)
उत्तरम्: (3) पुस्तकस्था
सावधानम्: (2) 'परहस्तगतं' इति पदं धनाय प्रयुक्तम्, न विद्यायै।