By signing in you confirm you are 18 or older, or have your parent’s or guardian’s consent.

CTET 8 Feb 2026 Paper 1 Sanskrit, Question 105

Topic: Grammar

Passage

निम्नलिखितानि पद्यानि पठित्वा षट् प्रश्नानां (100 - 105) उत्तराणि यथोचितान् विकल्पान् चित्वा देयानि।
अभिवादनशीलस्य नित्यं वृद्धोपसेविनः।
चत्वारि तस्य वर्धन्ते आयुर्विद्या यशो बलम्।।1।।

हस्तस्य भूषणं दानं सत्यं कण्ठस्य भूषणम्।
श्रोत्रस्य भूषणं शास्त्रं भूषणैः किं प्रयोजनम्।।2।।

पुस्तकस्था तु या विद्या परहस्तगतं धनम्।
कार्यकाले समुत्पन्ने न सा विद्या न तद्धनम्।।3।।

नमन्ति फलिनो वृक्षाः नमन्ति गुणिनो जनाः।
शुष्कवृक्षाश्च मूर्खाश्च न नमन्ति कदाचन।।4।।

अलसस्य कुतो विद्या अविद्यस्य कुतो धनम्।
अधनस्य कुतो मित्रम् अमित्रस्य कुतः सुखम्।।5।।

Q105

‘उत्पन्न’ इत्यस्य पदस्य निर्वचनम् क्रियताम्-

  1. (1) उद् + पद् + क्त
  2. (2) उत् + पद् + न
  3. (3) उत् + पत् + क्तCorrect answer
  4. (4) उत् + पन् + न

Solution.

CBSE answer: (3)

उत्तरम्: (3) उत् + पत् + क्त

  1. 'उत्पन्न' इत्यत्र 'उत्' (उद्) उपसर्गः अस्ति।
  2. 'क्त' प्रत्ययः भूतकालवाचकः, यथा 'सम्पन्न', 'आपन्न' इत्यादिषु।
  3. (3) इत्यत्र उपसर्गः प्रत्ययः च शुद्धौ स्तः।
Our note

टिप्पणी: धातुः वस्तुतः 'पद्' (गतौ), न तु 'पत्' (पत् + क्त = पतित); अतः (1) उद् + पद् + क्त इति शुद्धतमं निर्वचनम्।