“भविष्यचिन्तायां तु मया स्वकीयं वर्तमानमपि विनाशितम्” इति कस्य कथनम्?
- (1) दुहितुः
- (2) भागिनेयस्य
- (3) माधवस्य
- (4) रामगोपालस्य
निर्देशः—अधोलिखितं गद्यांशं पठित्वा प्रश्नानां (91–99) विकल्पात्मकोत्तरेभ्यः उचिततमम् उत्तरं चित्वा लिखत।
आसीत् पुरा माधवो नाम कश्चिद् गोपालकः। तस्य गृहे नन्दिनी नामैका गौः आसीत्। तस्याः दुग्धं विक्रीय सः सुखेन जीवनं यापयति स्म। एकदा तस्य भागिनेयः तत्रागत्य सूचितवान्—मातुल! “प्रतिवेशिनः श्रेष्ठिनः गृहे मासानन्तरम् एकः यज्ञः संपत्स्यते। तस्मिन् उत्सवे पञ्चाशत् किलोमितस्य क्षीरस्य आवश्यकता भविष्यति।” इदमाकर्ण्य माधवः अचिन्तयत्—“पञ्चाशत् किलोमितं पयः; अस्तु दास्यामि। एतावन्मात्रं पयः विक्रीय बहुधनं प्राप्स्ये, येन एकस्य भवनस्य निर्माणं करिष्यामि”।
अथ प्रसन्नः माधवः स्वधेनुम् अहर्निशं सेवते। सः तस्याः रज्जुं धृत्वा तस्यै तृप्तिपर्यन्तं प्रभूतं घासादिकं ददाति, जलं पाययति, विषाणयोः तैलं करोति। प्रातः सायं च तां तिलकं करोति। यदा-कदा गुडादिकमपि भोजयति। स सर्वदा चिन्तयामास “एकवारं ग्रहीष्यामि पयोऽस्या प्राज्यमुत्सवे”।
इत्थं सेवानिरतस्य तस्य एकः मासः व्यतीतः। अस्मिन्नन्तरे तस्य भार्या मालती पितृगृहात् प्रत्यावर्तत। माधवः तां तत्सर्वं विस्तरेण अकथयत्। तौ सत्वरं कुम्भकारस्य गृहाद् घटदशकं क्रीतवन्तौ। तदैव प्रतिवेशी दुग्धाय तम् आकारयत्। माधवस्तु सपदि पञ्चोपचारैः गाम् अपूजयत्। पात्रहस्तः दोहनाय गोः समीपम् अगच्छत्। मासैकपर्यन्तं दुग्धस्य अदोहनात् दुग्धहीना सा माधवहस्ते पात्रं दृष्ट्वैव अकूर्दत्। माधवः पौनःपुन्येन प्रार्थयति—“नन्दिनि! कथं मां व्याकुलयसि? पञ्चाशत् किलोमितं क्षीरं सत्वरं यच्छ”।
पौनःपुन्येन दोग्धुं प्रयतमानं माधवं सा पृष्ठपादाभ्यां ताडयित्वा रक्तरञ्जितमकरोत्। तं तादृशावस्थायां वीक्ष्य मालती मूर्च्छिता जाता। बहुभिः उपचारैः तस्याः मूर्च्छां दूरीकृत्य माधवः ताम् अकथयत् मासान्तेऽहं धनी भविष्यामि इति चिन्तयित्वैव मासपर्यन्तं मया धेनुरेव न दुग्धा। अस्मात् कारणादियं दुग्धहीनाऽभवत्। देवि! भविष्यचिन्तायां तु मया स्वकीयं वर्तमानमपि विनाशितम्। एभिः रक्तबिन्दुभिः मम चक्षुरुन्मीलितं यत् लघ्वपि कार्यम् अविचार्य न कर्तव्यम्।
“भविष्यचिन्तायां तु मया स्वकीयं वर्तमानमपि विनाशितम्” इति कस्य कथनम्?
“लघ्वपि कार्यम् अविचार्य न कर्तव्यम्” इत्यत्र ‘कर्तव्यम्’ इत्यस्य निष्पत्तिर्भवति—
मालती केन कारणेन मूर्च्छिता सञ्जाता?
“पञ्चाशत् किलोमितं पयः” इत्यत्र ‘पयः’ इति शब्दः कस्मिल्लिङ्गे वर्तते?
“विषाणयोः तैलं करोति” इत्यत्र ‘विषाणः’ इत्यस्य कोऽर्थः प्रस्तुतप्रसङ्गे?
‘सः’ शब्दस्य निष्पत्तिर्भवति—
तौ कुम्भकारस्य गृहात् कति घटकानि क्रीतवन्तौ?
अधोऽङ्कितेषु क्षीरस्य पर्यायवाचिशब्दोऽस्ति—
नन्दिनी इति कस्य नाम?
निर्देशः—अधोलिखितान् श्लोकान् पठित्वा प्रश्नानां (100–105) विकल्पात्मकोत्तरेभ्यः उचिततमम् उत्तरं चित्वा लिखत।
सर्वहिंसानिवृत्ता ये नराः सर्वे सहाश्च ये।
सर्वस्याश्रयभूताश्च ते नराः स्वर्गगामिनः॥
एक एव सुहृद्धर्मो निधनेऽप्यनुयाति यः।
शरीरेण समं नाशं सर्वमन्यत्तु गच्छति॥
योऽत्ति यस्य यदा मांसमुभयोः पश्यतान्तरम्।
एकस्य क्षणिका प्रीतिरन्यः प्राणैर्विमुच्यते॥
मर्तव्यमिति यद्दुःखं पुरुषस्योपजायते।
शक्यते नानुमानेन परेण परिवर्णितुम्॥
अयं निजः परो वेति गणना लघुचेतसाम्।
उदारचरितानां तु वसुधैव कुटुम्बकम्॥
हिंसारहिता नराः किं प्राप्नुवन्ति?
मृत्योरनन्तरं परलोके किं सार्धं गच्छति?
वसुधा एव अस्माकं परिवारोऽस्ति, इति के मन्यन्ते?
लघुचेतसां विचाराणि कीदृशानि भवन्ति?
‘वसुधैव’ अस्मिन् पदे का सन्धिः?
‘प्राणैर्विमुच्यते’ अस्मिन् पदे का सन्धिः?
चॉमस्की प्रतिपादयति यत् भाषायाः अर्जनस्य सहजाता क्षमता अस्माकम् अद्वितीयजैविकवंशानुक्रमस्य एव परिणामोऽस्ति। अस्य वंशानुक्रमस्य ज्ञानं कथं भवति?
भाषायां ध्वनेः लघुतमः सार्थकः एककः किं भवति?
मासद्वयस्य मासत्रयस्य वा शिशवः मुक्तस्वरेण ध्वनीनामुच्चारणं कुर्वन्ति। अधोऽङ्कितेषु कस्येदमुदाहरणम्?
अङ्किता इति अवबोधपूर्वकं विभिन्नाः षट्भाषाः भाषमाणे सक्षमा अस्ति। तस्याः भाषिकक्षमताकारणेन सा किं भवितुं शक्नोति?
भवतां रुचिः कूटमिश्रणे, कूटपरिवर्तने, शिशुभाषायाः गुप्तभाषाणामध्ययने चास्ति।
उपर्युक्तानां समेषां विषयाणामध्ययनाय भवता कस्य विषयस्य अध्ययनं करणीयम्?
अधोऽङ्कितेषु कः तुलनात्मकविश्लेषणस्य अंशो नास्ति?
भवता दृष्टम्, यत् एका आङ्ग्लभाषायाः अध्यापिका कक्षायां स्वच्छन्देन मातृभाषां प्रयुङ्क्ते। सा कतमां प्रक्रियामनुसरति?
संक्षिप्तरूपेण लेखनस्य एका योग्यता, यस्यां निश्चितार्थं प्राप्तुं कान्यपि परिहार्याणि विवरणानि न समाविष्टाणि, कथ्यते—
वाक्-अभिव्यक्तीनां मूल्यांकनं केन प्रभावशालिरूपेण क्रियते?
कक्षायाम् उपवेशनव्यवस्था शिथिलतायुता स्यात्। यतो हि—
प्राथमिकस्तरे पठनकौशलाकलनाय भाषायाः अध्यापकः प्राधान्येन कुत्र ध्यानं दद्यात्?
प्रभावशाली-सम्प्रेषणार्थं किमस्ति महत्त्वपूर्णम्?
आङ्ग्लभाषायाः व्याकरण-अध्यापनस्य किं मुख्यमुद्देश्यम्?
प्राथमिकस्तरे शिक्षार्थिनां लेखनकौशलविकासार्थम् अध्यापिका स्वकीयछात्रान् कं विषयम् अधिकृत्य लेखनाय प्रोत्साहयेत्?
भवान् स्वकक्षायां छात्राणां सोपानीकरणार्थं तेषां व्यक्तिगतान्तरान् परिज्ञातुं इच्छति। एतदुद्देश्यं प्राप्तुं भवान् अधोलिखितेषु कस्य आकलनस्य प्रयोगं कुर्यात्?
निर्देशः—अधोलिखितं गद्यांशं पठित्वा प्रश्नानां (121–128) विकल्पात्मकोत्तरेभ्यः उचिततमम् उत्तरं चित्वा लिखत।
एकदा मोहनदासः मित्रैः सह एकं नाटकं द्रष्टुमगच्छत्। तस्मिन् राज्ञः हरिश्चन्द्रस्य कर्मनिष्ठा गहनतमा सत्यभक्तिश्च प्रदर्शिते आस्ताम्। असौ निजपत्न्याः अपि श्मशानकरं गृहीत्वा सत्यमपालयत्। नाटकं दृष्ट्वा मोहनदासस्य चेतसि महत् परिवर्तनं सञ्जातम्। असौ चिरम् अरोदीत् मनसि सङ्कल्पञ्च अकरोत् यत् सत्यरक्षायां स हरिश्चन्द्र इव आचरिष्यति।
एकदा गाइल्सनामा विद्यालयनिरीक्षकः विद्यालयमागतः। तत्र एकस्यां कक्षायां बालानां वर्णविन्यासज्ञानं परीक्षितुमारभत। मोहनदासं विहाय सर्वे बालाः शुद्धं वर्णविन्यासम् अकुर्वन्।
सः केट्ल (Kettle) इत्यस्य शब्दस्य वर्णविन्यासं कर्तुं नाशक्नोत्।
आत्मनः संदिग्धां प्रतिष्ठां चिन्त्यमानः तस्य शिक्षकः आतङ्कितः अभवत्। सः शिक्षकः निकटस्थश्यामपट्टतः शुद्धां वर्तनीम् अनुकर्तुं सङ्केतेन मोहनदासं प्रैरयत्।
यद्यपि निरीक्षकस्य ध्यानम् अन्यत्र आसीत् तथापि मोहनः सम्मुखमवलोकयन् अपि शिक्षकस्य अनुकरणं नाकरोत्। सहपाठिनाम् उपहासभूमिः भविष्यामि शिक्षकस्य कोपभाजनताञ्च गमिष्यामि इत्यपि सः नाचिन्तयत्। सः जानाति स्म यद् वञ्चनातः सत्यस्य गोपनं कदापि भवितुं नार्हति।
कक्षाया अनन्तरं मोहनस्य शिक्षकः तस्मै अकुप्यत्, सहपाठिनश्च तस्योपहासम् अकुर्वन्। यदायं गृहं परावर्तत तदात्मानं क्षतम् अवसन्नञ्च अन्वभवत्। परं गभीरे अन्तरात्मनि स्वसङ्कल्पं स्मारं स्मारं नवां द्युतिं नवं सामर्थ्यञ्च अधिगतवान्।
अत एवोक्तम्—
सत्यान्नास्ति परं तपः॥
किमस्ति परं तपः?
मोहनदासः किं दृष्ट्वा चिरम् अरोदीत्?
‘अरोदीत्’ इत्यस्मिन् पदे को धातुः कश्च लकारः किञ्च वचनम्?
विद्यालयस्य निरीक्षकस्य परीक्षायां केन शुद्धं वर्णं न लिखितम्?
“चेतसि महत् परिवर्तनं सञ्जातम्” इत्यत्र ‘सञ्जातम्’ इत्यस्य पदस्य निष्पत्तिर्भवति—
“स्वसङ्कल्पं स्मारं स्मारं नवां द्युतिम्” इत्यत्र ‘स्मारं स्मारम्’ इत्यत्र कः प्रत्ययः?
“नवं सामर्थ्यञ्च अधिगतवान्” इत्यत्र ‘अधिगतवान्’ इत्यस्मिन् पदे कः प्रत्ययः?
“सः जानाति स्म” इत्यत्र ‘सः’ इत्यस्य निष्पत्तिर्भवति—
निर्देशः—अधोलिखितं गद्यांशं पठित्वा प्रश्नानां (129–135) विकल्पात्मकोत्तरेभ्यः उचिततमम् उत्तरं चित्वा लिखत।
आदिगुरोः शङ्कराचार्यस्य जन्म केरलप्रान्ते कालडीनामके ग्रामे अभवत्। अस्य पितुः नाम शिवगुरुः आसीत्। अस्य जन्मनः प्रागेव सः दिवंगतः। माता आर्याम्बा एवास्य पालनमकरोत्। जन्मनैव प्रतिभासम्पन्नतया स कुलोचिताः विद्याः शीघ्रमेव अधीतवान्। मनसा, वचसा कर्मणा च विरक्तः शङ्करः मातरं संन्यासस्यानुमतिम् अयाचत्। पुत्रस्नेहपरवशा सा शङ्करस्य इमां प्रार्थनां न स्वीकृतवती।
एकदा शङ्करः नद्यां स्नातुं गतः। तत्र नक्रेण गृहीतः स उच्चैः आक्रोशत्। आक्रोशं श्रुत्वा माता नदीतीरं गता पुत्रं च नक्रेण गृहीतम् अपश्यत्। शङ्करः अवदत्—“अम्ब! यदि संन्यासं ग्रहीतुं मामनुमंस्यसे तर्हि अहं नक्रात् मुक्तो भविष्यामि।” अनिच्छन्त्यपि माता—“वत्स! यथा तुभ्यं रोचते तथा कुरु” इति कष्टेनाकथयत्। एतच्छ्रुत्वा शङ्करः नक्रात् मुक्तः अभवत्। नद्याः बहिर्निर्गत्य मातुः चरणयोः प्रणामं कृत्वा सः अवदत्, “मातः! यद्यपि गच्छाम्यहं संन्यासाय तथापि यदैव त्वं मां स्मरिष्यसि तदैव उपस्थितो भविष्यामि।” एवं प्रतिज्ञाय गृहात् निरगच्छत्।
अथ परिव्राजकैः सह देशाद्देशं पर्यटन् शङ्करः काश्यां गोविन्दपादाचार्येभ्यः वेदान्तविद्यामधीतवान्। अनन्तरं मुख्यानाम् उपनिषदां ब्रह्मसूत्राणां श्रीमद्भगवद्गीतायाश्च भाष्याणि अरचयत्। अनेन विरचितानि बहूनि स्तोत्रकाव्यान्यपि सन्ति येषु भजगोविन्दस्तोत्रम् अतीव लोकप्रियमस्ति।
एवं मन्यते यत् मरणासन्ना माता यदैवास्य स्मरणं अकरोत् तदैवायं तत्समीपम् आगच्छत्। दिवंगतायां मातरि संन्यस्तोऽपि सः पुत्रोचितं सर्वं कृत्यं सम्पादितवान्। ततः सर्वतः परिभ्रमन् स जनेभ्यः अद्वैतवेदान्तसिद्धान्तस्य ज्ञानमुपदिष्टवान्। अस्मिन्नेव प्रचारक्रमे स द्वारिकायां बदर्यां जगन्नाथपुर्यां शृङ्गेर्यां च चतुरः मठान् समस्थापयत्। अन्ते च द्वात्रिंशे एव वयसि स ब्रह्मभावम् उपगतः।
“स कुलोचिताः विद्याः शीघ्रमेव अधीतवान्” इत्यत्र ‘अधीतवान्’ इत्यस्य निष्पत्तिर्भवति—
शङ्कराचार्यः कस्य सिद्धान्तस्य प्रचारमकरोत्?
शङ्कराचार्यस्य निर्वाणं कस्यामवस्थायामभवत्?
शङ्कराचार्येण अधोऽङ्कितेषु कुत्र मठं स्थापितम्?
“अहं नक्रात् मुक्तो भविष्यामि” इत्यत्र ‘अहम्’ इत्यस्य निष्पत्तिर्भवति—
“नद्यां स्नातुं गतः” इत्यत्र ‘स्नातुम्’ इत्यस्मिन् पदे को धातुः कश्च प्रत्ययः?
शङ्करः केभ्यः वेदान्तविद्यामधीतवान्?
द्वितीयायाः भाषायाः अधिगमसिद्धान्ते—अर्जनम्, अवलोकनम्, स्वाभाविकम्, निवेशः, प्रधानापरिकल्पना एतादृशी शब्दावली केन प्रदत्ता?
अधोलिखितेषु कस्मिन् स्तरनिर्धारणस्य क्रमस्य च सिद्धान्तः संलग्नः वर्तते?
भवतां संज्ञाने आगतं यत् छात्रेभ्यः लक्ष्यभाषायाः कतिपयानि उदाहरणानि प्रस्तोतव्यानि, तथा च ते तेषां अनुकरणं करणाय प्रतिक्रियाप्रदानाय च प्रोत्साहनीयाः। उद्देश्यमिदं प्राप्तुं अधोऽङ्कितेषु कः विधिः सर्वोपयुक्तोऽस्ति?
केनापि बालकेन मातृभाषायाः अधिगमः सामान्यतया किं मन्यते?
एकः सक्रियश्रोता तत्क्षणमेव अवगच्छति—
कक्षायां काव्यं पाठनाय अध्यापकः सर्वादौ कवितां पठति, अनन्तरं तेन छात्राः समूहकार्ये नियोजिताः। एकेन समूहेन कवितायाः विषयः लिखितः, अपरेण समूहेन मुख्य पात्रस्य वर्णनाय चित्रं चित्रितम्, तथा च तृतीयेन समूहेन कवितायाः सारांशो लिखितः। अस्य गतिविधेः किमुद्देश्यम्?
द्वितीयभाषाकक्षा सामान्यतया विविधभाषासमेकिता वर्तते। एतादृश्यां कक्षायाम् अध्यापकानां भूमिका छात्राणां कृते किं प्रदाने भवति?
भवता एतादृशं परीक्षापत्रकं निर्मितं येन भवताम् अपेक्षा अस्ति यत् छात्राः कालरूपाणाम् (लकाररूपाणाम्) योजकचिह्नानां कारकाणां विशेषणानाञ्च उचितं प्रयोगं ज्ञापयेयुः। भवता अस्यां परीक्षायां कतम उपागमः प्रयुक्तः?
शिशवः प्रारम्भिकायामवस्थायां भित्तिकायाम्, भूमौ, कार्यपुस्तिकायाञ्च अस्पष्टाक्षरैर् लिखन्ति। भाषायाः अधिगमस्य एषा अवस्था कथ्यते—
सम्प्रेषणात्मकं भाषाशिक्षणं कस्यां पारस्परिकनिर्भतायां बलं ददाति?
भवान् स्वकीयायाः कक्षायाः छात्राणाम् अधिगमप्रक्रियायाः उपाख्यानात्मकानि-अभिलेखानि गृहीतुमिच्छति। उद्देश्यमिदं प्राप्तुं अधोऽङ्कितेषु किमुपयुक्तम्?
अधोऽङ्कितेषु व्याकरणसन्दर्भे किमुचितम्?
यदा शिशवः अल्पायु-बालाश्च एतादृशे परिवेशे वसन्ति यत्र तेषां भाषां प्रति उद्घाटनम् (Exposure) अनुभवो वा न वर्तते, तेषां भाषाविकासः प्रकृष्टरूपेण बाधितः भवति। एता बाधकता अपरिवर्तनीया भवति। एतां व्याख्यां कतमा पदावली समर्थयति?
व्याकरणस्य शिक्षणं केन प्रकारेण स्यात्?
भवान् स्वकक्षायाम् एकं भाषासमृद्धवातावरणं निर्मातुमिच्छति। एतदर्थं भवता किं कर्तव्यम्?