By signing in you confirm you are 18 or older, or have your parent’s or guardian’s consent.

CTET 7 Feb 2026 Paper 1 Sanskrit, Question 126

Topic: Grammar

Passage

निर्देशः—अधोलिखितं गद्यांशं पठित्वा प्रश्नानां (121–128) विकल्पात्मकोत्तरेभ्यः उचिततमम् उत्तरं चित्वा लिखत।
एकदा मोहनदासः मित्रैः सह एकं नाटकं द्रष्टुमगच्छत्। तस्मिन् राज्ञः हरिश्चन्द्रस्य कर्मनिष्ठा गहनतमा सत्यभक्तिश्च प्रदर्शिते आस्ताम्। असौ निजपत्न्याः अपि श्मशानकरं गृहीत्वा सत्यमपालयत्। नाटकं दृष्ट्वा मोहनदासस्य चेतसि महत् परिवर्तनं सञ्जातम्। असौ चिरम् अरोदीत् मनसि सङ्कल्पञ्च अकरोत् यत् सत्यरक्षायां स हरिश्चन्द्र इव आचरिष्यति।
एकदा गाइल्सनामा विद्यालयनिरीक्षकः विद्यालयमागतः। तत्र एकस्यां कक्षायां बालानां वर्णविन्यासज्ञानं परीक्षितुमारभत। मोहनदासं विहाय सर्वे बालाः शुद्धं वर्णविन्यासम् अकुर्वन्।
सः केट्ल (Kettle) इत्यस्य शब्दस्य वर्णविन्यासं कर्तुं नाशक्नोत्।
आत्मनः संदिग्धां प्रतिष्ठां चिन्त्यमानः तस्य शिक्षकः आतङ्कितः अभवत्। सः शिक्षकः निकटस्थश्यामपट्टतः शुद्धां वर्तनीम् अनुकर्तुं सङ्केतेन मोहनदासं प्रैरयत्।
यद्यपि निरीक्षकस्य ध्यानम् अन्यत्र आसीत् तथापि मोहनः सम्मुखमवलोकयन् अपि शिक्षकस्य अनुकरणं नाकरोत्। सहपाठिनाम् उपहासभूमिः भविष्यामि शिक्षकस्य कोपभाजनताञ्च गमिष्यामि इत्यपि सः नाचिन्तयत्। सः जानाति स्म यद् वञ्चनातः सत्यस्य गोपनं कदापि भवितुं नार्हति।
कक्षाया अनन्तरं मोहनस्य शिक्षकः तस्मै अकुप्यत्, सहपाठिनश्च तस्योपहासम् अकुर्वन्। यदायं गृहं परावर्तत तदात्मानं क्षतम् अवसन्नञ्च अन्वभवत्। परं गभीरे अन्तरात्मनि स्वसङ्कल्पं स्मारं स्मारं नवां द्युतिं नवं सामर्थ्यञ्च अधिगतवान्।
अत एवोक्तम्—
सत्यान्नास्ति परं तपः॥

Q126

“स्वसङ्कल्पं स्मारं स्मारं नवां द्युतिम्” इत्यत्र ‘स्मारं स्मारम्’ इत्यत्र कः प्रत्ययः?

  1. (1) ण्वुल्
  2. (2) तुमुन्
  3. (3) मतुप्
  4. (4) णमुल्Correct answer

Solution.

CBSE answer: (4)

उत्तरम्: (4) णमुल्

  1. ‘स्मारं स्मारम्’ इत्यस्य अर्थः ‘पुनः पुनः स्मृत्वा’।
  2. ‘आभीक्ष्ण्ये णमुल् च’ इति सूत्रेण पौनःपुन्ये अर्थे णमुल्-प्रत्ययः भवति, ‘नित्यवीप्सयोः’ इति सूत्रेण पदस्य द्विरुक्तिः च।
  3. स्मृ + णमुल् = स्मारम्, यथा ‘पायं पायम्’, ‘दर्शं दर्शम्’।

सावधानम्: तुमुन् निमित्तार्थे (स्मर्तुम्), ण्वुल् कर्त्रर्थे (स्मारकः) भवति।