अधोऽङ्कितेषु क्षीरस्य पर्यायवाचिशब्दोऽस्ति—
- (1) घृतम्
- (2) पयः
- (3) दधि
- (4) संयावः
निर्देशः—अधोलिखितं गद्यांशं पठित्वा प्रश्नानां (91–99) विकल्पात्मकोत्तरेभ्यः उचिततमम् उत्तरं चित्वा लिखत।
आसीत् पुरा माधवो नाम कश्चिद् गोपालकः। तस्य गृहे नन्दिनी नामैका गौः आसीत्। तस्याः दुग्धं विक्रीय सः सुखेन जीवनं यापयति स्म। एकदा तस्य भागिनेयः तत्रागत्य सूचितवान्—मातुल! “प्रतिवेशिनः श्रेष्ठिनः गृहे मासानन्तरम् एकः यज्ञः संपत्स्यते। तस्मिन् उत्सवे पञ्चाशत् किलोमितस्य क्षीरस्य आवश्यकता भविष्यति।” इदमाकर्ण्य माधवः अचिन्तयत्—“पञ्चाशत् किलोमितं पयः; अस्तु दास्यामि। एतावन्मात्रं पयः विक्रीय बहुधनं प्राप्स्ये, येन एकस्य भवनस्य निर्माणं करिष्यामि”।
अथ प्रसन्नः माधवः स्वधेनुम् अहर्निशं सेवते। सः तस्याः रज्जुं धृत्वा तस्यै तृप्तिपर्यन्तं प्रभूतं घासादिकं ददाति, जलं पाययति, विषाणयोः तैलं करोति। प्रातः सायं च तां तिलकं करोति। यदा-कदा गुडादिकमपि भोजयति। स सर्वदा चिन्तयामास “एकवारं ग्रहीष्यामि पयोऽस्या प्राज्यमुत्सवे”।
इत्थं सेवानिरतस्य तस्य एकः मासः व्यतीतः। अस्मिन्नन्तरे तस्य भार्या मालती पितृगृहात् प्रत्यावर्तत। माधवः तां तत्सर्वं विस्तरेण अकथयत्। तौ सत्वरं कुम्भकारस्य गृहाद् घटदशकं क्रीतवन्तौ। तदैव प्रतिवेशी दुग्धाय तम् आकारयत्। माधवस्तु सपदि पञ्चोपचारैः गाम् अपूजयत्। पात्रहस्तः दोहनाय गोः समीपम् अगच्छत्। मासैकपर्यन्तं दुग्धस्य अदोहनात् दुग्धहीना सा माधवहस्ते पात्रं दृष्ट्वैव अकूर्दत्। माधवः पौनःपुन्येन प्रार्थयति—“नन्दिनि! कथं मां व्याकुलयसि? पञ्चाशत् किलोमितं क्षीरं सत्वरं यच्छ”।
पौनःपुन्येन दोग्धुं प्रयतमानं माधवं सा पृष्ठपादाभ्यां ताडयित्वा रक्तरञ्जितमकरोत्। तं तादृशावस्थायां वीक्ष्य मालती मूर्च्छिता जाता। बहुभिः उपचारैः तस्याः मूर्च्छां दूरीकृत्य माधवः ताम् अकथयत् मासान्तेऽहं धनी भविष्यामि इति चिन्तयित्वैव मासपर्यन्तं मया धेनुरेव न दुग्धा। अस्मात् कारणादियं दुग्धहीनाऽभवत्। देवि! भविष्यचिन्तायां तु मया स्वकीयं वर्तमानमपि विनाशितम्। एभिः रक्तबिन्दुभिः मम चक्षुरुन्मीलितं यत् लघ्वपि कार्यम् अविचार्य न कर्तव्यम्।
अधोऽङ्कितेषु क्षीरस्य पर्यायवाचिशब्दोऽस्ति—
CBSE answer: (2)
उत्तरम्: (2) पयः
सावधानम्: दुग्धजन्यं वस्तु दुग्धस्य पर्यायः न भवति।