By signing in you confirm you are 18 or older, or have your parent’s or guardian’s consent.

CTET 7 Feb 2026 Paper 1 Sanskrit, Question 103

Topic: Poem comprehension

Passage

निर्देशः—अधोलिखितान् श्लोकान् पठित्वा प्रश्नानां (100–105) विकल्पात्मकोत्तरेभ्यः उचिततमम् उत्तरं चित्वा लिखत।

सर्वहिंसानिवृत्ता ये नराः सर्वे सहाश्च ये।
सर्वस्याश्रयभूताश्च ते नराः स्वर्गगामिनः॥

एक एव सुहृद्धर्मो निधनेऽप्यनुयाति यः।
शरीरेण समं नाशं सर्वमन्यत्तु गच्छति॥

योऽत्ति यस्य यदा मांसमुभयोः पश्यतान्तरम्।
एकस्य क्षणिका प्रीतिरन्यः प्राणैर्विमुच्यते॥

मर्तव्यमिति यद्दुःखं पुरुषस्योपजायते।
शक्यते नानुमानेन परेण परिवर्णितुम्॥

अयं निजः परो वेति गणना लघुचेतसाम्।
उदारचरितानां तु वसुधैव कुटुम्बकम्॥

Q103

लघुचेतसां विचाराणि कीदृशानि भवन्ति?

  1. (1) सर्वे जनाः स्वार्थिनः सन्ति
  2. (2) वयं सर्वेषु श्रेष्ठाः
  3. (3) सर्वमेव धनं अस्ति अस्माकम्
  4. (4) अयं निजः अयं परःCorrect answer

Solution.

CBSE answer: (4)

उत्तरम्: (4) अयं निजः अयं परः

  1. श्लोके उक्तम्: 'अयं निजः परो वेति गणना लघुचेतसाम्'।
  2. लघुचेतसः संकुचितविचाराः जनाः 'एषः मम, एषः परः' इति भेदं कुर्वन्ति।
  3. अन्ये त्रयः विकल्पाः श्लोके न सन्ति।

सावधानम्: (1) 'सर्वे जनाः स्वार्थिनः सन्ति' इति विकल्पः उचितः इव प्रतीयते, परं श्लोकस्य वचनं (4) एव।