Q101
मृत्योरनन्तरं परलोके किं सार्धं गच्छति?
- (1) दानम्
- (2) परोपकारः
- (3) सत्यम्
- (4) धर्मः
निर्देशः—अधोलिखितान् श्लोकान् पठित्वा प्रश्नानां (100–105) विकल्पात्मकोत्तरेभ्यः उचिततमम् उत्तरं चित्वा लिखत।
सर्वहिंसानिवृत्ता ये नराः सर्वे सहाश्च ये।
सर्वस्याश्रयभूताश्च ते नराः स्वर्गगामिनः॥
एक एव सुहृद्धर्मो निधनेऽप्यनुयाति यः।
शरीरेण समं नाशं सर्वमन्यत्तु गच्छति॥
योऽत्ति यस्य यदा मांसमुभयोः पश्यतान्तरम्।
एकस्य क्षणिका प्रीतिरन्यः प्राणैर्विमुच्यते॥
मर्तव्यमिति यद्दुःखं पुरुषस्योपजायते।
शक्यते नानुमानेन परेण परिवर्णितुम्॥
अयं निजः परो वेति गणना लघुचेतसाम्।
उदारचरितानां तु वसुधैव कुटुम्बकम्॥
मृत्योरनन्तरं परलोके किं सार्धं गच्छति?
CBSE answer: (4)
उत्तरम्: (4) धर्मः
सावधानम्: दानं, सत्यं, परोपकारः च धर्मस्य अङ्गानि, परं श्लोके 'धर्मः' इति एव पदम्।